________________ 4] शासवार्तासमुच्चयस्य [ तृतीयः सत्कार्य्यवादे तु सत: सिद्धत्वेनाकरणात् साध्यार्थितयैवोपादानग्रहणात नियतादेव क्षीरादेः सामग्रथा दध्यादिदर्शनात् सिद्धे शक्यव्यापारात् तादात्म्ये स्वस्मिन्निव कार्यकारणभावाद् विपरीतं हेतुपश्चकम् / यदि कारणब्यापारात् प्रागपि पटस्तन्तुषु घटः कपालेषु वा सन्नेव तदा किमि. त्युपलब्धिकारणेषु सत्सु सत्यामपि जिज्ञासायां नोपलभ्यते, अनावि. र्भावादिति चेत्, कोऽयमनाविर्भाव: ? उपलब्धेरभावश्चेन सैव कथम् ? इत्याक्षेपे तदेवोत्तरमिति घट्टकुट्यां प्रभातम् / अथोपलब्धियोग्यस्यार्थस्यार्थक्रियाकारिरूपम्य विरहोऽनाविर्भाव इति चेत्, असत्कार्य्यवादः, तादृशरूपस्य पूर्वमविद्यमानम्य पश्चाद्भावात् / विजातीयसंयोगस्य तदवच्छेदेन सन्निकर्षस्य वा व्यञ्जकस्याऽभावाद् न प्रागुपलब्धिरिति चेत्, तर्हि तस्यैव प्रागसत्त्वेऽसत्का उपात:, प्राक् सन्नेवाऽविभूतो व्यञ्जक इति चेत् न, आविर्भावस्यापि सदसद्विकल्पग्रासात् / स्थूलरूपावच्छिन्नस्य प्रागसत्त्वानोपलब्धिः, धर्मधर्मियोः सौम्यस्थौल्ययोश्चैकत्वान्ननवस्थेति चेत् तर्हि सूक्ष्मरूपा. वच्छिन्नस्याऽहेतुकत्वेऽतिप्रसङ्गः, प्रकृतिमात्रहेतुकत्वे च स्थूलतादशायामपि तदापत्तिरिति न किञ्चिदेतत् / तस्माच्छवलस्यैव वस्तुनः कथञ्चित् सत्त्वमसत्त्वश्चाप्युचितम्, तथा च बुद्धयादीनामहन्त्वसामानाधिकरण्येनाध्यवसीयमानत्वात् तद्धर्मतया तत्रैव समन्वयः कर्मप्रकृतिस्तु तत्र निमित्तमात्रमिति प्रतिपत्तव्यम् / ननु रूपादिसन्निवेशरहितममूर्त मूर्ततां (रूपादिमत्परिणतिम् ) न याति, आकाशादौ तथा दर्शनात्, एवं मूर्तममूर्तपरिणतिं नाऽऽयाति परमाण्वादिषु तत्सद्भावाऽप्रसिद्धः, यस्मादेवं न स्वरूपविपर्ययो भवति सतो नियमात् कर्मप्रकृत्याऽऽत्मनो बन्धाद्यसङ्गतम् इति चेद् आह