________________ 2] शास्त्रवार्तासमुच्चयस्य [ तृतीयः न स्यात् / ब्राह्मणशर रावच्छिन्नज्ञानजनकमन: संयोगविशेषनाशानु. कूलो व्यापार एव ब्रह्महत्येति चेत् न, तादृशमनःसयोगस्य स्वत एवं नश्वरत्वात, साक्षाघातानुपपत्तेश्च / ब्राह्मणशरीरावच्छिन्नदुःखविशेषानुकूलव्यापार एव ब्रह्महत्येति चेत्, शरीराच्छरीरिणः सर्वथा भेदे तच्छेदादिना सम्य दुःखमपि कथम् ? परम्परासम्बन्धेन तदात्मस. म्बन्धादिति चेत्, साक्षादेव कथं न तत्सम्बन्धः ? शरीरावयवच्छेदादात्मावयवच्छेद एव हि शरीरात्पृथग्भूतावयवस्य कम्पोपलब्धिरुपपद्यते, नान्यथा, प्राणक्रियाया अपि तन्मात्रोपग्रहं विनाऽभावात् / अथैवं छिन्नावयवानुप्रविष्टस्य पृथगात्मत्वप्रसक्ति: स्यादिति चेत्, न, यस्माच्छरीरावयवः पृथग्भूतस्तस्मिन् शरीर एवच्छिन्नावयवस्य पश्चात् प्रवेशात्, छिन्ने हस्तादौ कम्पादितल्लिङ्गादर्शनादित्थंकल्पनात् / न चैकत्वे आत्मनो विभागाभावाच्छेदाभाव इति वाच्यम् / शरीरद्वारेण तस्यापि सविभागत्वात् / अन्यथा सावयवशरीरव्यापिता तस्य न स्यात्। छिन्नाच्छिन्नयोः कथं पश्चात संघटनमिति चेत्, न, एकान्तेनाच्छिन्नत्वात, पद्मनालतन्तुवदच्छेदेऽपि च्छेदाभ्युपगमात् / संघटनमपि तथाभूतादृष्टवशादविरुद्धमेव / हन्त ! एवं शरीरदाहेऽप्यात्मदाहः स्यादिति चेत्, न, क्षीरनीरयोरिवाभिन्नत्वेऽपि भिन्नलक्षणत्वेन तद्दोषाभावात् / तस्मादेहात्मन एकान्तपृथक्त्वे हिंसाद्यभावः, तदभावे च निमित्तसन्निधानाभावात कथं शुभाशुभबन्ध इति / शुभाशुभबन्धादिकं विना देवनार कादिरूपः संसारो मुक्तिश्चास्य नोपपद्यते। मुक्तः कर्मक्षय. रूपत्वात् / मुक्त्यभावे च सर्वमेव यमनियमादिघोरानुष्ठानं व्यर्थ स्यात् / कः खलु फलमनभिलषन्नेव दुष्करक्लेशैरात्मानमवसादयेत् / स्यादेतद्-श्रात्मा न बध्यते, नापि कदाचन मुच्यते, तस्य च