________________ स्तबकः ] . कल्पलतावतारिका [81 दावपि देहः कर्ता स्थूलरूपावच्छिन्नस्य तस्य कुलालादिचेष्टयैवोत्पादादिति चेत्, असौ देहो नैगऽऽत्मनः पृथक् सर्वगतत्वान्निष्क्रियत्वाच / असर्वगतसकियदेहादात्मा प्रथगेवेति चेत्, आत्मनो भोगानुपपत्तेः / सर्वथा देहाद् भेदे तस्य मुक्तिस्वीकारात् क्षीरनीरन्यायेन देहाभिन्नस्यैवाऽऽत्मनो देहोपनीतभोगसम्भवात् / - प्रात्मनो देहद्वारेण वस्तुनो नेष्यते भोगः किन्तु प्रतिबिम्बोदयात्। याप्येवमपि सुखदुःखाद्यन्तःकरणधर्मानुविद्धस्य महत एव स्वतोऽचे. तनस्य चेतनोपरागेण 'चेतनोऽहं सुखी' इत्यांद्यभिमानरूपश्चैतन्यांशेऽतात्त्विको भोगः, न तु पुरुषस्य, तथापि भोक्तृबुद्धिसन्निधानात् तत्र भोक्तृत्वव्यवहारः। तथाचोक्तं पतञ्जलिना "शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति तमनुपश्यन्नतदात्माऽपि तदात्मक इव प्रतिभासते” इति / . पप्रच्युतस्वभाव एव पुरुष: सान्निध्यात् अचेतन मन: स्वोपरक्त करोति यथोपाधिः पद्मरागादिः स्फटिकं स्वधर्मसक्रमेण स्वोपरक्त करोति / न चैतावता सः (पद्मरागादिः ) विकरोति किन्तु स्फटिक एव विकियते तथाऽऽस्मापि बुद्ध युपराग जनयन् न विकरोति, किन्तु बुद्धिरेव विक्रियते इति बोद्धयम् / आत्मभिन्नाभिहितपुरुषोपरागपरिणामायामन्त:करणलक्षणायां बुद्धावस्यात्मनो भोग: सांख्याचारासुरिप्रभृतिभिः कथ्यते वास्तवचन्द्रस्य निर्मले जले प्रतिबिम्बपरिणाम इव / किश्चास्याऽऽत्मन एकान्ततो देहपृथक्त्वेऽभ्युपगम्यमाने कचिद्धिंसादयो नैव भवेयुः। नहि ब्राह्मणशरीरहत्यैव ब्रह्महत्या मृतब्राह्मणशरीरदाहेऽपि तत्प्रसङ्गात् / नच मरणोद्देश्याभावादयमदोष: मरणोद्देश्येनाप्यदोषप्रसङ्गात्, ब्राह्मणा. स्मनस्तु नाश एव न, नित्यत्वात् / एवञ्च ब्राह्मणं नतोऽपि ब्रह्महत्या