________________ 80 ] शास्त्रवार्तासमुच्चयस्य [ तृतीयः एकरूपा हि प्रकृतिः सदैव महदादि जनयेत् कदापि वा न जनयेत् / तत्तत्कालावच्छिन्नजननाऽजननोभयनिरूपितैकस्वभावत्वादयमदोष इति चेत्, जननाऽजननयोस्तत्कालावच्छिन्नत्वे तत्स्वभावत्वम् तत्स्वभावत्वे च तयोस्तत्त्वमित्यन्योन्याश्रयः। स्वभावादेव च तयोस्तत्त्वमित्यन्योन्याश्रयः / स्वभावादेव च तयोस्तत्त्वे विलीन प्रकृत्यादिप्रक्रिययेतिभावः / एवमेव प्रधानस्य महदाधुपादानकारणत्वाङ्गीकारे एकान्तनित्यता न स्यात्, अनित्यमहदाद्यभिन्नत्वात् / यद्यदनित्याभिन्नं तत्तदनित्यमितिध्याप्तः / महदाद्यभिन्नत्वमेव कथमिति चेत्, तन्मते कार्यकारणयोरभेदात् सत्कार्य्यवादसिद्धान्तात् / महदाद्यपि सर्वदा सत्त्वान्नित्यमेवेति चेत, तर्हि प्रकृतिविकृत्यादिप्रक्रियैव समुच्छिद्यते / मुक्तावपि महदादिसत्त्वेऽपसिद्धान्तश्च / महदादेः प्रकृतिपरिणामित्वेन प्रकृत्यभिन्नत्वेऽप्यनित्यत्वादिना भेद एवेति चेत्, तर्हि भेदाभेदप्रसङ्ग इति / ____ स्थूलकार्यजातं घटादिकमपि कुलालादिसापेक्षं जायमानं दृश्यते कुलालादीनां तत्रान्वयव्यतिरेकानुविधानदर्शनात् / अतो हेतोस्तत् पृथिव्यादिपरिणामैकहेतुकं न भवति / नियतान्वयव्यतिरेको विना तादृशपरिणामेऽपि हेतुताग्रहाभावात् / तयोश्च कुलालादाववि शेषात् / कारणस्य कार्यगतयावद्धर्मानुविधायित्वात् कुलालादीनां न घटादिहेतुत्वमिति चेत्, तर्हि बुद्धिगतानां रागादीनामपि प्रकृतौ स्वीकारात् प्रकृतिरेव बुद्धिः भावाष्टकसम्पन्नत्वात् न तु प्रकृतिः प्रथक् स्वीकार्या। स्थूलरूपतामपहाय ते रागादयः सूक्ष्मरूपतया प्रकृतौ सन्तीति चेत्, लयाद्यवस्थायां सूक्ष्मतया बुद्धावपि सत्त्वात्तत्रैव तेषामवस्थानात्, सूक्ष्मतया घटादिगतधर्माणां कुलालादौ कल्पने बाधकाभावाच / घटा