________________ स्सवकः ] कल्पलतावतारिका [ 76 तु-पुनः / एतत्-अनुपदमुक्तम् / प्रक्रियामात्रवर्णनम्-स्वेच्छाकल्पितपरिभाषामात्रोपदर्शनम्, न तात्तिकमितिशेषः / ब्रवते वदन्ति / हि-निश्चयेन / युक्तथा-सत्तर्केण / अविचार्य-विचारणामकृत्वा / एव-अवधारणार्थकमव्ययम् / परम्-केवलम् / श्रद्धमा-परमवृद्धकपिलोक्तसमादरेण। तत्-प्रकृत्यादिपरिभाषोपवर्णनम् / गम्यतेउपादीयते। साजथानामितिशेषः / सत्यां विचारणायां तन्मतं सर्वथा हेयमेवेति भावः / ननु कथं साडयमतस्य सर्वथा हेयतेति चेत्, सत्यम् तैर्जगत्का. रणत्वेन मन्यमान प्रधानमप्रच्युताऽनुत्पन्नस्थिरैकम्वभावमिष्यते / एवं सति पूर्वस्वभावपरित्यागाऽपूर्वस्वभावोपादानाभ्यामेव हेतुहेतुमद्भावनियमात् प्रधानस्य प्रधानत्वाप्रच्युतौ सत्यां ततो महदादि कथं भवेत् / अङ्गदादिपरिणामनाशेनैव कुण्डलादिपरिणामोत्पाददर्शनात् / ___ अथास्माभिरपूर्वस्वभावोत्पत्त्या हेतुहेतुमद्भावो नाभ्युपगम्यते, रूपभेदादनित्यताप्रसङ्गात् / किन्त्वपरित्यक्तसर्पभावस्य सर्पग्य कुण्डलावस्थावदपरित्यक्तप्रधानभावस्यैव प्रधानस्य महदादिपरिणामाभ्युपगम इति को दोष: ? युवत्ववृद्धत्वपरिणामयोरप्यवस्थित एव धर्मिणि पूर्वोत्तरभावनियमेनावस्थासाङ्कादिति चेदत्रोच्यते-प्रधानस्य महदादिजननस्वभावत्वात् प्रधानत्वाऽप्रच्युतावपि महदाधुत्पत्तिस्वीकारे समर्थस्य कालक्षेपायोगात् प्रकृतिसन्निधानस्य सर्वदा सत्त्वात् सर्वदैव महदाधुत्पत्तावेकहेलयैव जगदुत्पत्तिप्रसङ्गात् / कदाचिजननस्वभाव. त्वादेव न सर्वदोत्पत्तिरितिचेत्, तस्य प्रधानस्य नियतस्वरूपाविकतत्वे कदाचिजननस्वभावत्वायोगात् /