________________ 78 ] शास्त्रवार्तासमुच्चयस्य [ तृतीयः मनसः, अभिमानोऽहकारस्य,कृत्यध्यवसायो बुद्धापारोऽनुसन्धेयः / ___सा हि बुद्धिरंशत्रयवती, पुरुषोपरागः विषयोपरागः, व्यापारावेशश्चेत्यशाः / भवति हि ममेदं कर्तव्यम् इति बुद्धेरध्यवसायः / तत्र 'मम' इति पुरुषोपरागः, दर्पणस्येव मुखोपरागः, भेदाऽप्रहादतात्त्विकः / 'इदम्' इति विषयोपरागः इन्द्रियप्रणालिकया परिणतिभेदो मुखनिःश्वासहतस्य दर्पणस्येव मलिनिमोपरागस्तात्त्विकः तदुभयोपपत्तौ व्यापारावेशोऽपि / तत्र विषयोपरागलक्षणज्ञाने पुरुषोपरागस्यातात्विकसम्बन्धो दर्पणप्रतिबिम्बितस्येव मुखस्य तन्म लिनिम्नेति / ततो महत्तत्त्वादहकारोत्पत्तिः, भवति हि स्वप्नावस्थायां 'व्या. घोऽहम्' वराहोऽहम् इत्यभिमानः, न तु नरोऽहमित्यभिमानः / अस्ति च नरत्वं सन्निहितमिन्द्रियसम्बन्धश्च / अतोऽनियतविषयाभिमानव्यापारकाहकारसिद्धिः / अग्रेतनतत्त्वनिचयस्तु प्रकटसिद्धः / विश्वे पुरुषस्य पुष्करपलाशवन्निर्लेपत्वात्तजन्य न किमपि दरीदृश्यते, दृश्यमानं घटाद्यखिलं तु पृथिव्यादिपरिणामजन्यमेवेति सालचाः / ___अत्र नैयायिकाः प्रत्यवतिष्ठन्ते,अन्यइति( शास्त्रवार्ता० ) अन्ये तु ब्रुवते ह्येतत्, प्रक्रियामात्रवर्णनम् / अविचायैव तद्युक्तया, श्रद्धया गम्यते परम् // 21 // अन्वयः-अन्ये, तु, एतत्, प्रक्रियामात्रवर्णनम् , ब्रुवते, हि, युक्तथा, अविचार्य, एव, परम् , श्रद्धया, तत् , गम्यते / .. (अव०) अन्ये-प्रपरे विद्वांसः, नैयायिका इति यावत् /