________________ स्तवकः ] कल्पलतावतारिका [77 - - - - शक्तिः स्वीकरणीयतामर्हति / ततश्च कार्येऽसति कारणस्य शक्तिः कथं नियता स्यात् / असतो वस्तुनो विषयत्वायोगात् , तस्मात् कार्य प्रागपि सदेव / एवं कारणतारतम्यादपि सदेव कार्यमित्यभ्युप. गन्तव्यम् / कारणरूपेभ्योऽवयवेभ्योऽवयविरूपं कार्यं न भिद्यते तथाप्रतीतेरभावात् / 'कपालं घटीभूतम् तन्तुः पटीभूतः सुवर्णं कुण्डलीभूतम् " इति तयोरभेदप्रतीतेश्च / तस्माद् महदादिकार्यस्योत्पत्तेः प्रागपि यत्र सत्त्वं सा प्रकृतिरवगन्तव्येति / एतत्सङ्ग्रहाकत्वेनोक्तं यथा-"असदकरणादुपादान-ग्रहणात् सर्वसम्भवाभावात्। शक्तस्य शक्यकरणात, कारणभावाच्च सत्कार्यम्॥६॥ . (सालयकारिका) ततश्च प्रकृतेः सकाशाद् बुद्धयपरनामकं महत्तत्त्वमुत्पद्यते / यतश्चैतन्यं स्वभावतो विषयावच्छिन्नं प्रकृत्यधीनं वा स्वीकरणीयतामहति / विषयावच्छिन्नत्वेऽनिर्मोक्षप्रसङ्गः, प्रकृत्यधीनत्वेऽपि तस्यानित्यतया तदोषानुद्धार •एवेत्यतो यत्सम्बद्धेन्द्रियस्य विषयचैतन्यावच्छेदनियामकत्वम् , यद्वयापाराच सुषुप्राविन्द्रियव्यापारविरतावपि श्वास-प्रश्वासादि-तन्महत्तत्वम् / तस्य धर्मा ज्ञानाऽज्ञानै-श्व-नैश्वर्य-वैराग्यावैराग्य-धर्माधर्मरूपा अष्टौ, बुद्धिसुखदुःखेच्छाद्वेषप्रयत्ना अपि, भावनायास्तैरनङ्गीकारात् / अनुभवस्यैव स्मृतिपर्यन्तं सूक्ष्मरूपतयाऽवस्थानात् / तस्य ज्ञानरूपपरिणामेन सम्बद्धो विषयः पुरुषस्य स्वरूपतिरोधायकः / एवञ्च बुद्धितत्त्वनाशादेव पुरुषस्य विषयावच्छेदाभावाद् मोक्ष: / भेदाग्रहाच्च चेतनोऽहं करोमीत्यध्यवसायः / अचेतनप्रकृतिका-या बुद्धेश्चैतन्यानुपपत्त्यैव स्वाभाविकचैतन्यरूपस्य पुरुषस्य सिद्धिः / आलोचनं व्यापार इन्द्रियाणाम्, विकल्पस्तु