________________ 76 ] शास्त्रवार्तासमुच्चयस्य [ तृतीयः नचाऽसदेव महदादिकं कार्यमुत्पद्यमानं स्वीक्रियताम् , तत्समन्वयार्थ प्रधानानुसरणेन न किमपि प्रयोजनमिति वाच्यम् / असतः कार्य्यस्यानुत्पत्तेस्तथाहि असत: शशविषाणादिकस्य कार्यस्य सत्त्वं केनापि कर्त्तमशक्यम् , अतो हेतोः सत एव कार्य्यस्य सत्कारणमनुसरणीयम् , तद्धमत्वात्तस्य / लोकेऽपि तिलेषु सत एव तैलस्य निष्पीडनेन सम्पादनं दृश्यते यथा न तथाऽसत: कार्यस्य कुत्रचित् केनापि सम्पादनमिति / न च सत्कार्यवादे विद्यमानप्रागभावप्रतियोगित्वरूपायाऽसत्त्वस्य विद्यमानत्वरूपम्य सत्त्वस्य च न विरोध इतिवाच्यम्। अविद्यमानत्वस्यैव लाघवादसत्त्वरूपतास्वीकारात् तस्यैवानुगताऽसत्त्वव्यवहार. प्रयोजकत्वात् / एवं कार्यमानं प्रति तदुपादानापेक्षणादपि कार्य सदिति मन्तव्यम् / अन्यथा शालिबीजकोद्रवबीजयोरुभयत्रापि शालिफलात्मककार्यायोगस्याऽविशेषेऽपि शालिफलार्थिनः शालिबीजस्यैवोपादानम् न तु कोद्रवबीजादेरिति प्रतिनियमानुपपत्ति: स्यात् / एवं सर्वस्मात् सर्वस्यानुत्पत्तेश्चापि कार्य सदिति. स्वीकार्य्यम् , असतः कार्य्यस्य सम्पादनेऽसम्बद्धत्वाविशेषेण सर्वं सर्वस्माद् भवेत् , तस्मा. दुत्पत्तेः प्राक् कार्य कारणेन सह सम्बद्धमवसेयम् / तथा चाहु रभियुक्ताः असत्वाद् नास्ति सम्बन्धः, कारणैः सत्त्वसङ्गिभिः / असम्बद्धेषु, चोत्पत्ति-मिच्छतो न व्यवस्थितिः / / एवमशक्तस्य वस्तुनः कारणत्वस्वीकारे पूर्ववदतिप्रसङ्गाच्छ. क्तस्य तस्य कारणत्वं वक्तव्यम् / शक्तत्वश्च शक्तिमत्वम्, शक्तिश्च न सार्वत्रिकी स्वीकर्तुं शक्या, तथैवातिप्रसङ्गात् / एवञ्च कचिदेव