________________ विजयोल्लास-महाकाव्यम् ( 56 ) किमगोचरितः कुहूनिशि, प्रयतो मन्त्रमसावपोपठत् / यदवाप तदाननोपमां, विधुरुच्चैरिह तत्प्रसादतः // ___ . ( 57 ) त्रिजगद्रुचिरातिशायि तद्, विधुनावापि तदाननं पदम् / सुकृताय तमोमदाङ्कुर क्रकचच्छिन्नतनुर्ममार यत् // ( 58 ) शुचितद्वदनात्तवैभवो, द्विजराजोऽपि स हीनवैभवः / उचितां ननु कान्तिभिक्षुकः, किमटन माधुकरीमचीचरत् // ( 56 ) धुरि कान्तिमतां तदाननं, विदितं क्वानुकरोतु चन्द्रमाः / मिहिरादिह जातदीधितिः, .. __स कुहूपर्वणि भक्षदायिनः //