________________ विजयोल्लास-महाकाव्यम् ( 48 ) . मदनस्य तनोस्तदा श्रियं, भवभालाग्निहुतेः पलं विदन् / इदमास्यपदाय चन्द्रमा, रविवह्नावजुहोत् तनू निजाम् // . ( 46 ), इदमास्यमवेक्ष्य वेधसा, शशभृद्यत्र विलुप्यते क्रुधा / शुचि पक्षमुपैति तं न हाऽ शुचिमन्यञ्च विशेष दर्शनः // ( 50 ) नलिनं मलिनं किलालिना, रजनीशोऽपि कलङ्कपङ्किलः / इदमीयमुखे निषेदुषी, सुषमाऽऽस्ते कथमेतयोस्ततः // ( 51 ) इदमास्यतुलाभिलाषिता तम एव द्विजराजि लाञ्छनम् / भवमौलिसरापगाजले निरयाद्यज्जलधेस्तु कर्दमः॥