________________ 158 विजयोल्लास-महाकाव्यम (40 ) द्रुहिणेन तदास्यसृष्टये, ... हृतसर्वस्वतया सुधाम्बुधौ / उदभूदिह पङ्कसङ्करः, शशिनि श्यामललाञ्छनच्छलात् // ( 41 ) अदसीयमुखं विधित्सुना, ' विधुतः सारमर्षि वेधसा / लधुभूत इवेति सोऽन्वहं, भ्रमति व्योम्नि चिराय तूलवत् // ( 42 ) द्विजराजकलङ्किनो जया ___ दकलङ्कन तदाननेन ते / उचितैव न खेदवेदना, स्थितिरेषा हि पुरातनी श्रुता // ( 43 ) विधुरङ्कमृजाकृतेऽन्वहं, किमु तक्ष्णोति तनमहो निजाम् / न तदाननतुल्यताऽस्य ही, भविताऽदर्शनमेवमाश्यता //