________________ विजयोल्लास-महाकाव्यम् ( 32 ) उचितः किल विद्रुमेऽधरे, . प्रथितोऽस्याः स्मरतापनातपः / ननु चित्रमितः समेधते, ___ न तु शृङ्गाररसः प्रशुष्यति // ( 33 ) नितमामिदमीयपाटला- ' धरबिम्बन शुचिस्मितस्पृशा / अपि कोकनदं व्यडम्बि तत्, कलितं बालमराललीलया // स्मितविस्मित-केतकीदल रिदमीयाधर-बिम्बचुम्बिभिः / मदनस्य जगज्जिगीषतोऽप्युचिता पुष्पफलोपनम्रता // ( 35 ) कथमेतदिदं शुभाधरा मृतनिस्यन्दविलास्यपि स्मितम् / युवभिनिजनेत्रपधिनी दलपीतं हृदयान्यममुहत् //