________________ 155 द्वितीयः सर्गः ( 28 ) अमृतस्य विधोस्तदाननी भवतः साधु पदं किलाधरौ / उदजीव्यत तौ विधापय. द्भवनेत्राग्नि हुतोऽपि मन्मथः // . ( 26 ) उचितं मदनाय तत्प्रिया धरबिम्बीफलढौकनं मधोः / कृसुमप्रसरच्छरध्यये, हरगौयौं फलतो जिघांसते // ( 30 ) सुषमासु परीक्षणक्षणे, विधिना कल्पिततोलनाविधौ / अधरे किल तत्र गौरवं, . न तु बालोद्गतविक्रमे श्रिया // ( 31 ) ___ इदमीयमनातपाशया, हरकोपानलहेतितापवान् / अधरं समशिश्रियत् स्मरः, स बहुव्रीहिधियेव विक्रमम् //