________________ द्वितीयः सर्गः 146 .. ( 4 ) अनया विजिताः सुराङ्गना, भृशदुःखादिव रूपसम्पदा / अनिमीलितनेत्रसम्पुटा, नियतं निश्यपि नैव शेरते // परिणामसहायनामभाक्, 'तरुणी (सा) तरुरेव निश्चिता / जडतां दधती हियापितां, ननु रम्भाऽपि तदीक्षणाजिताम् // प्रथिता किल सा तिलोत्तमा, कथमस्याः पुरतस्तिलोत्तमा / अनया हि समानताऽप्यहो, . स्वविशिष्टां मुमुचेऽनुवीक्ष्य यत् // रतिरेतु रतिं न कहिचित्, कथमस्यास्त्वियता विजिष्णुता। उचितं कलयामि तज्जिता, रतिरेवान्तरिता तदेव नु॥ 1. “रतिरेवानुरतिरेतदेव नु” इत्यपपाठः /