________________ अथ द्वितीयः सर्गः युवनेत्रविलासि यौवनं, शुचिवंशोचितशीलशालिता। चिरमेतदभूदिहोभयं, सुधियः कस्य न विस्मयावहम् // . ( 2 ).. अतनोरनुमीयते कृति न तु सामान्यविविधेरियम् / न विशेषविधिविधीयते, . किमु सामान्यविधि विधूय वा // (3) पुरुषोत्तममेनमाश्रितां, शुचि-शृङ्गारसुधार्णवोद्भवाम् / नयने विनिवेशितामिमां, न विदुः के भुवि काञ्चनश्रियम् //