________________ प्रथम: सर्गः . 143 ( 87 ) सीमा किमस्मिन्निजकौशलस्य, सम्भूय भूयः स्मरयौवनाभ्याम् / समापि लावण्यविधाविधानात्, . कुतोऽन्यथा हीदृशरूपसृष्टिः // . ( 88 ) गलन्निमेषञ्च निरन्तरञ्च, तदर्शनादर्शनतृप्त्यतृप्ती। स्वर्जन्मनः काभिरहो सुरीभि निन्दास्तुती कारयतः स्म नोच्चैः // ... ( 86 ) . कथन्न चक्षुःश्रवसां वधूनां, शुश्रूषया चास्य दिदृक्षया च / सम्पूर्यतामेकतरोपयोगव्यग्रासमनाक्षमिथः प्रवृत्त्या // (60 ) क्व योग्यताऽस्मासु किलास्य योगे, कृतार्थता वा नयनोपभोगे / इत्थं न काभिर्मनुजाङ्गनाभि विसिस्मिये वा हृदि सिस्मिये वा //