________________ .. 142 विजयोल्लास-महाकाव्यम् स्वकान्तिमित्रस्य स एव शश्वत् .. सङ्क्रम्यमाणां गुणसङ्क्रमेण / सुवर्णशैलस्य गतां शिलासु, विशालतां नो वपुषाऽपुषत्किम् ? // . . ( 84 ) अस्य द्विषद्गोत्रविखण्डनेन, ... भेजे भुजाभ्यां पविना जयश्रीः। तेनैव दर्पश्चिरमेतयोः कि, विस्तारयुग्मांसलतां ततान // ... ( 85 ) स मांसलांसद्वितये करीन्द्रः, स केसरी चाजनि मध्यदेशे। अहो तमासाद्य कुतोऽपि हेतोविरोधिनोरप्यगलद्विरोधः // ( 86 ) निर्वेदतः किं तपसे सिषेवे, - वनं न रक्तोत्पलपल्लवाभ्याम् / तदीयपादद्वयनिजिताभ्यां, प्रतिक्षणात्क्षीणविपल्लवाभ्याम् //