________________ प्रथमः सर्गः . प्रथमः सर्ग: . 141 (76 ) अचूचुरच्चामरभासमस्य, केशोच्चयश्चामरभासमस्य / वने निवासं चमरी च लेभे, विपर्ययं किन्न गतिश्चलेभे // ( 80 ) . भवं समासेव्य किलैतदास्य सायुज्यभाजं द्विजराजमापुः / तदानुचर्योचित-कर्मयोगाद्, द्विजा अपीमे ननु किन्न मुक्ताः॥ ( 81 ) पुरो मुखस्यास्य वृथैव भूत मसौ कलङ्कीति यदावधत्ते / धत्ते तदा नाम विधौ स वेधा, सन्तक्षणी दारुणराहुदंष्ट्राम् // ( 82 ) जेतुं जगद्यस्य दृशैव शक्यं, . मुखस्य तस्यास्तु न कि विशेषः / इदं जडात्मा सहसाऽविचिन्त्य, वृथा विधुः स्पर्धति दुविनीतः //