________________ 40 विजयोल्लास-महाकाव्यम् __( 75 ) कस्तूरिकापङ्किलसूर्यचन्द्र.. तुङ्गस्तनी कि रिपुदुर्यशोभिः / अशोभि नैतस्य यशोभरद्यौः, कर्पूरपूरेण करम्बिताङ्गी // यद्धास्वताऽनेन तमः समस्तं, निरस्यते स्मानुदिनोदितेन / कथं न तेनास्तु सतां सुवर्त्म गतेनिदानं विजयप्रकाशः // .. . ( 77 ) सन्त्यज्य जाड्यं बहु चापलञ्च, ___ यच्छशवं तेन न बह्वमानि / इतीव तद्यौवनसीम्नि भक्ते, 'रोमोद्गमो रोषवशाज्जगाम / ( 78 ) व्यशीशिषद्रूपमथास्य लास्यं, वयः स्मयस्मेरतरस्मरस्य / बाल्यात्परं नाम तथा यथोच्च र्भानुप्रभा सौरभमम्बुजस्य / / 1. रोमोद्गमै रोषवशाज्जगामेत्यपि पाठो दृश्यते / /