________________ प्रथमः सर्गः 136 नि ( 71 ) इतः समुद्रादुदपद्यतोच्चै र्यशः शशी यत्किल निष्कलङ्कः / सरस्वतीशालिनि तत्र जाते, निष्कम्पभावस्य विजृम्भितं तत् // ( 72 ) स्वरूपलक्ष्म्यैव हि भस्मभूय मनेन नेतुं सुशकः स कामः / अतोऽस्य मन्ये भवमन्युवह्निदाहंप्रयासः किल फल्गुरेव // ( 73 ) द्रष्टुं किमासीन्मघवाऽस्य रूपं, विस्फारितस्फारसहस्रनेत्रः / गातुं गुणानेव किमेतदीयान्, सहस्रजिह्वोऽपि सहस्रजिह्वः // . (74) सतीव्रतोच्छेदभियानुदीत रोमाञ्चराजिः कथमद्य गौरी / ... श्रुत्वा सचिन्तोऽस्य न कीर्तिकान्ती, प्रमोदमङ्ग विवरीतुमीशः //