________________ 138 विजयोल्लास-महाकाव्यम् विद्या गुरोरेव हठाद् गृहीता- श्चतुर्दशाऽप्यस्य मुखे विलेसुः / अतो लघूभूत इवैष चित्रं, व्योमाङ्गणे. स प्रतिबम्भ्रमीति // ' ( 68 ) 'अनाश्रितेऽस्मिन्न महत्त्वभाजां, वाचामहम्पूर्विकयेति बुद्धया / एनं श्रिताभ्यां सुदृढं किमाभ्यां, श्रीभारतीभ्यां मुमुचे विरोधः // प्रकम्प्यमानो जगदे स्वयं यो, 'मेरुर्नमेजगदीश्वरेण / धीरस्तु तेनास्तु कथं सुर्वर्णाचलस्य मुख्यस्य तुलाऽप्यमुष्य // ( 70 ) मुख्यो महेन्द्रो व्यलसत्किलायं, __ शक्रः पुनस्तत्प्रतिबिम्बमात्रम् / इदं विशिष्यापरिचीय तत्त्वं, विपर्ययभ्रान्तिरही जनानाम् // 1. अनाश्रितोऽस्मिन्न महत्त्वभाजा वाचामिति पाठोऽपि दृश्यते /