________________ प्रथमः सर्गः 137 ( 63 ) अस्थैर्य मौज्झच्चिरमस्य लक्ष्मी रेतद्गुणोघर्घन-यन्त्रितेव / दान्ता महद्धिर्नहि नाम काम मुच्छृङ्खलाश्चापलमाचरन्ति // . ( 64 ) विमानलक्ष्मीपरिभोगतोऽस्य, समानता चेन्न पुरन्दरस्य / तदेतदौपम्यकथा प्रथाया मभेद एवास्तु परं निदानम् // . ( 65 ) विद्याभिरेतस्य जितोऽधितस्थौ, पुनः कविर्यल्लघुलेखशालाम् / ततस्तदीयाध्ययनार्थपूर्वा भ्यासाय ताराः खटिकात्वमीयुः // . दयैव तेनान्तरधारि जीवे, यतो भयं भेजुषि भूरिधाम्ना / तदीयविद्याविभवस्य नाभूत् कला तु षोडश्यपि जातु काव्ये //