________________ प्रथमः सर्गः 131 ( 36 ) ' औचित्यभाजो द्रुपदात्मजावत् स्वस्वैरिणीभावकलङ्कमार्जी / भुवोऽनुरागः प्रतिभर्तृ यत्र, विभाति कश्मीरजपण्यवीथी // ( 40 ) पोनीभविष्णोः पणितुः पुरस्ता न्यस्तेन्द्रनीलद्युतिसङ्गतोऽपि / यत्रापणेष्वेणमदस्य मन्ये, मालिन्यमेवास्तु न गौरवाय // ( 41 ) सदाच्युतश्रीसहितस्य कामं, कर्पूरपूरोज्ज्वलफेनराशेः / सज्जीवनस्येह यदापणस्य, रत्नाकरत्वं भजमानमेव // ( 42 ) यदापणन्यस्तसमस्त-वस्तु विक्रीयमाणं वणिजा व लोक्य / वृथा कथासु प्रथिता कुलश्री * न कुत्रिका कैरपि बलमानि //