________________ प्रथमः सर्गः 126 ( 31 ) यत्रापणश्रेणिषु शुभ्रभासो, मुक्ताफलानां प्रकराः स्फुरन्ति / श्रियः परीभोग (वशे)न जाताः, . स्वेदोदलेशा इव तद्विभूनाम् // ( 32 ) निजश्रियं येन हतामवेत्य, दुखादियं द्यौः किमु मूच्छितैव / येनोपचीर्णा जिनवेश्मकेतु चेलाञ्चलं प्रेरितशोतवातैः // यस्मिन्, सभास्तारसभासमक्षं प्रासाददण्डोपरिचन्द्रबिम्बम् / जिगीषया द्यां प्रति दीर्घवंश- विन्यस्तपत्रश्रियमादधाति // (34 ) यद्वेश्मनों च त्रिदिवौकसो च, . द्वयोविवादो ववृते चिराय / अथानयोभङ्गजयो तु भाव्यौ, विमानताख्या ध्वजधारणाभ्याम् / /