________________ प्रथमः सर्गः . ( 15 ) अधःकृतामेव दिशं स्वलक्ष्म्या, स्वयं विजेतुं पुनरप्युदास्ते / इत्युच्छ्रितैर्यो नवदुर्गहस्तै दिशो नवाह्राय जिगीषतीव // ( 16 ) नीतिनवीनेयमनीतिभाव____ मपि स्फुटं यं व्यतिवृत्य वृत्ता। इदं न कस्य प्रणिगद्यमानं, विपश्चितश्चेतसि विस्मयाय // (17 ) स्तुतिः क्षपाणामपि यत्र युक्त्या, पान्थप्रमोदात् पथि दूरदीर्घ / निलीय मेरौ वसतां तु निन्दा, कल्पद्रुमाणामुदरम्भरीणाम् // ( 18 ) यो यत्र दोषः प्रतिभाति कश्चि निदर्शनत्वं किल निर्जलानाम् / सरस्वतोशालिजनाननेभ्यः, . स्तुत्येव विप्रस्तु गुणं तमेव //