________________ 124 विजयोल्लास-महाकाव्यम् ( 11 ) भूपो भुनक्ति स्म विशालधामाऽ यं मारुदेविमरुदेवनामा / तस्यैव नाम्ना प्रथितः पृथिव्यां, . सद्धर्मकर्मव्यसनी स नीवृत् // . ( 12.) यं वीक्ष्य साक्षान्नवदुर्गमुच्च निर्वेदतो मैष मयि व्यरंसीत् / इतीव शम्भोर्भयतो भवानी, नव्यार्थकं तं नवशब्दमाह // ( 13 ), दुर्गेरुदनर्नवभिः परीतं निपीय यं किन्नरगीयमानम् / एकेन दुर्गेण सुमेरुणेन्द्रः, स्वर्गेऽपि गर्वोद्धरतां जहातु // ( 14 ) फलं ददुा समरावबुद्ध युध्यद्भटच्छिन्ननिजद्विपात्रः। सम्पूजिता यत्र नवापि दुर्गाः, . सिन्दूरपूरैः परपार्थिवानाम् //