________________ प्रथमः सर्गः 123 (7) लावण्यलक्ष्मीपरिभोगलुभ्य त्पुलोमजानेत्रचकोरपेयाः। मादृगजनध्यानसमुद्रवृद्धि क्षमा दधानं वदनेन्दुभासः // तारामिषात्सङ्गलगण्यमाने, - रेखाभिराभिः खटिकामयीभिः / पूर्ण गुणौघरधुनापि धात्रा, लाभादविभ्रान्तवतैव सीम्नः // (6 ) कुकाल-पातालतलावमज्जद वसुन्धरोद्धारधुराधुरीणम् / सूरीश्वरश्रीविजयादिदेवपट्टैकपूर्वाचलभानुमन्तम् // (10 ) नाम्नैव धाम्नामनुरूपरूपं, सङ्क्रान्तमन्तर्गुणमावहन्तम् / सूरीश्वरं श्रीविजयादिसिंह, स्तोतुं प्रवर्ते विजयाभिकाङ्क्षी // (सप्तभिः कुलकम्)