________________ 122 विजयोल्लास-महाकाव्यम् ऐङ्कारमाराधयतां जनानां, येषां प्रसादः परमोपकारी। तेषां गुरूणां चरणारविन्दरजः परां सम्पदमातनोतु // * ( 4 ) न्यूनाधिकाभ्यां शशिभानुमद्धयां, याभ्यामुभाभ्यां किल कुण्डलाभ्याम् / शोभानुरूपेत्यपरं जगत्य, योग्यं महः कुण्डलमर्पयन्तम् // . ( 5 ) सुधांशुनाम्नव मुधा जनोऽयं, कलङ्किनं कञ्चन बह्वमस्त / इतीव मत्वा तमपलुवान धों द्योतयन्तं विशदैर्यशोभिः // निदर्शनत्वं बहुरूपभाजा मनङ्गसङ्ग कथमङ्गतीति / रूपप्रकर्षप्रथितं जनानां, . भाग्येन भूमीमनुकम्पयन्तम् / /