________________ सकलभट्टारकशिरोमरिणभट्टारकधी 5 श्रीविजयदेवसूरीश्वरगुरुभ्यो नमः // न्यायविशारद-न्यायाचार्य-महोपाध्याय श्रीमद्यशोविजयगणिवर्य विरचितं विजयोल्लास-महाकाव्यम् -: प्रथमः सर्गः : ( 1 ) ऐङ्कारसारस्मृति-सम्प्रवृत्तै__वृत्तः सुवृत्तः पटुगीतकीतिः / मदन्तरायव्ययसावधानः, . श्रियेऽस्तु शखेश्वरपार्श्वनाथः // ऐन्द्र प्रकाशं कुरुतां ममोद्य - महारयादेव सरस्वतीयम् / ... सदा हितानां तनुते हितं या, पुंसां पवित्रा सकलाधिकारम् //