________________ चतुर्थः सर्गः 115 (51 ) स ह्यनन्तबल इत्यभिजल्प त्यत्र तत्र जगदुः कृषिकाराः / अन्तमेति ननु तबलमस्मदेशपेशलहलैनिपतद्भिः // ( 52 ) उत्थितः क्षितितृणादिखनद्धि त्रिपाणिभिरभण्यत वाणी / तद्भटायुधयशःशितदात्र, श्रेणिरेव पिबति प्रसभं नः // ( 53 ') तं प्रतिप्रबलगर्वभूतैर्वा, तत्र मञ्जरथकृद्धिरभाणि / ईश्महे विभुबले तव द्वातुं, छिन्नकाष्ठनिचयैरपि कष्टम् // ( 54 ) पशुपाणिभिरपि स्वमुखेन्दोः, कीलितः सकलया किल वाचा / किं न नः करशयालुकुठारा स्त्वत्प्रभोर्बलगदप्रतिकाराः //