________________ '114 पार्षभीय-चरित-महाकाव्यम् (47 ) यज्जिनेन्द्रगृहदण्डनिविष्ट, _ लाम्बनालिभृति पार्वणचन्द्रे / विस्मयाकुलमनास्ततनालव्योमपङ्कजधिया स बभूव // * ( 48 ) तत्र कस्त्वमिति पृच्छति लोके, शंसिते भरतदूत इतीमम् / मौलमर्थमनवेत्य निनिन्दुः, कल्पितान्यविषयाः पथि वध्वः // . (46) बुध्यते न भरतः किमु नेते त्याक्षिपन्तममुमुत्करतालम् / ता जगुर्न परमेनमवेमः, कञ्चुकीयरचनकविशेषात् // ( 50 ) पूजितो जयति स क्षितिपालैः, सार्वभौम इति जल्पति तस्मिन् / तज्जना जगुरसौ न सुनन्दा नन्दनात् किल परोऽस्ति पृथिव्याम् //