________________ चतुर्थः सर्गः 113 ( 43 ) पूर्णतावदगजध्वजतर्का, यत्र वैभवमहालयविद्याः। स व्यलोकयदलौकिकपद्मावाप्तविभ्रमरसा नगरेषु // ( 44 ) वासरान्न तिमिरेण विभक्तं, ग्रामकर्बटपुरादिषु नक्तम् / यत्र तेन ददृशे हसितेषु, स्फाटिकार्हतगृहांशुसमूहैः // ( 45 ) तं स्म सस्मयवशा इव चैत्य स्तम्भलग्नवपुषः सुखयन्ति / पुत्रिकाः कलितलक्षकटाक्षा, यत्र सेय॑मितरेतरपश्याः // ( 46 ) इन्द्रनीलमणिकुट्टिमहेम स्तम्भशालिजिनराजगृहेषु / यत्र सोऽर्णवविलोलनलोल स्वर्णशैलशतविभ्रममूहे //