________________ चतुर्थः सर्गः 111 छायया कवलिताध्वसु यस्मिन्, भूयसी क्षितिरुहामतिकान्ता / सञ्चरद्रथमणिद्युतिदम्भात्, तेन सौररुगचिन्त्यत वान्ता // ( 36 ) ग्रामराजिषु कृतान्तरमान स्ताम्रचूडतरुणोड्डयनेन / सन्तुतोष न तु यत्र स सीम्नां, क्षेत्रपङ्क्तिभिरनन्तरवेदी // ( 37 ) स प्रपाः यथि विनिर्मितगङ्गा पत्रपाः परिपपौ जलपूर्णाः / यत्र च प्रतिपदं कणहट्टान्, लोचनेन जनदैन्यघरट्टान् // ( 38 ) यत्र काम्यवरणाय पुरेषु, स्थूललक्षपटहे ध्वनति द्राग् / स व्यचिन्तयदगादिषु लोनां, ___. दीनतां प्रति रवे न रुदित्वा //