________________ 110 आर्षभीय-चरित-महाकाव्यम् ( 31 ) कपकुक्षिमपभिद्य घटीभि र्जीवनान्यपि हठेन हरन्तः / तस्य चित्तमहरन्न रघट्टा, यत्र पूत्कृतिकृतः शठभट्टाः // ( 32 ) दुष्ट दूत इति यत्र विलोलः, षट्पदैर्धकुटिभङ्गकरालम् / पल्वलर्मुकुलितामलपद्म छद्मलोचनशतैः स निरैक्षि // . ( 33 ) त्यक्तगोवधघटोद्भवभीत क्षीरसागरपयः कलशोध्न्यः / कि विभज्य जगृहुर्जनगव्यो, वीक्ष्य ता इति स यत्र शशङ्क // ( 34 ) धान्यमैक्षि कृषिकः सकृदुप्तं, ___ लूनमप्यसकृदुद्गतरोहम्। तेन यत्र पृथुधीभिरधीता ध्यापितं मनसि शास्त्रमिवोच्चैः //