________________ '108 पार्षभीय-चरित-महाकाव्यम् ( 23 ) यत्र वृक्षतलसुप्तमगुप्त- स्वर्णभूषणगणं पथिकौघम् / ... निश्चिकाय परिवीक्ष्य स गोमु मिकाममभिराममगुप्तम् // . ( 24 ) यत्र तेन ददृशे कणहन्त व्यन्तरव्रजपलायनलीला। क्षेत्रपालपरिदर्शितमन्युत्रासितोत्प्लुतविसङ्गमदम्भात् / / ( 25 ) तस्य यत्र गगनोपगताना, ग्रामधामनिचिताः कणपुजाः। पर्वता इव करालकुकालव्यालमूनि पतिताः प्रतिभाताः // (26) क्षेत्रमैक्षत स यत्र पवित्रं, मण्डितं बहुभिरक्षवदण्डैः। . उच्छ्रितः प्रतिपदं धृतगर्व ग्रन्थिभिनवसुधारसजैत्रः //