________________ चतुर्थः सर्गः 107 ( 16 ) तन्न तेन वनमैक्ष्यत यस्मिन्, यन्न चारुतरराजिविराजि / सा च काचिदपि नैव शुकर्या, न स्तुतर्षभयशोभिरशोभि // ( 20 ) घोषितर्षभगुणा उपरिस्था, यद्वनीतरुषु तद्वदधःस्थाः / सारिकाः स किल गोपगणानां, दारिकाश्च परिवीक्ष्य जहर्ष // ( 21 ) यद्वनद्रुमगणे सुरवृक्ष __ निर्गतैः क्वचन कालनियोगात् / साक्षिभूतमुखरभ्रमरौधे, न्यस्तमेव सरसं हृदि मेने // ( 22 ) भृङ्गसङ्गतलताकरताली, दानरङ्गरसिका शशिशुभ्रः। .तेन यत्र कुसुमैः सुरवाटी, हासकृन्न कलिता नवनाली //