________________ - आर्षभीय-चरित-महाकाव्यम ( 15 ) अग्रतः कटु रराट निविष्टः, शुष्ककण्टकितरौ करटोऽस्य / लक्षयन् स्फुटममङ्गलबाणाघर्षिशाणघनघर्घरघोषम् // * ( 16 ) स्थाष्णु[स्नु] रस्य पथि दक्षिणहस्ते, रासभोऽपि विरसं रसति स्म / सत्वरोद्भवदुपद्रवनाट्येऽदत्तभोजनमृदङ्गसमानः॥ . ( 17) तादृशेरशकुनैरपि जान __ न्नात्यजत् प्रचलनव्यवसायम् / नाधिकं प्रभुनिदेशविलम्बात्, ___स स्म वेद बलवन्तमपायम् // ( 18 ) त्यक्तसौवविषयावधिरेष, प्राप बाहुबलिमण्डलमिद्धम् / शर्मणाऽतिशयिना परिपूर्ण, द्राग्महोदयमिवोत्तमसाधुः //