________________ चतुर्थः सर्गः चस्कले रसनयाऽस्य तदानीं, जल्पकल्पकतयापि किलोक्तौ / लक्षयक्षनततक्षशिलेशक्लेशवारकपराहतयेव // ( 12 ) वारितोऽपि पथि सादिसमूहै स्तस्य वामदिशि दक्षिणहस्तात् / सारमेयतरुणः परिसर्पन्, सारमेयगतमेव मवादीत् // ( 13 ) वाममेव हरिणा हरिणाशु प्रेरिता: परिययुः पथि तस्य / स्वीयजातिमृगभिद्गृहवाम्यं, दर्शयन्त इव स्वोत्प्लुतिदम्भात् // ( 14 ) पापयोरपथदर्शनदोषा न्नेत्रयोः प्रविकिरन् बहुधूलीम् / तं न्यवर्तयदिव प्रतिकूलो, मारुतोऽप्यधिकृतव्यवसायात् // 1. 'मीदग' इति ग्रन्यकृत्पाठान्तरम् /