________________ पार्षभीय-चरित-महाकाव्यम् ( 7 ) व्यात्तमास्यमिव विघ्नमृगारेः, कुप्रवृत्तितटिनीतटगस्य / रिक्तकुम्भमयमैक्षत सद्यो, .. मस्तके विधवया धृतमुच्चैः // ... (8) भूरिबन्धवृतमावृतिहीनं, प्रार्थनाविषयमप्युपनम्रम् / काष्ठभारमकरोदयमक्षणोः, कष्टभारमतिथि किमु मूर्तम् // (6) मित्रवन्नवदवानलमुक्त ज्वालजालजटिलं प्रतियान्तम् / मंक्षु तं क्षुतमपि प्रतिषेध्य, - प्रस्थितेरसकृदाप न दोषम् // ( 10 ) शिक्षिताश्ववरसारथियुक्तो. ऽप्यस्खलत्पथि रथश्च तदीयः / निश्चितामनुहन्निव चेष्टां, तन्मनोरथपरिस्खलनस्य //