________________ चतुर्थः सर्गः 103 आदितः स्ववशमप्यवशः स न्नब्जयोनिरचनानुचरत्वात् / गन्धसिन्धुरमवेक्षितुकामः, . स क्रमेलकममेलयदक्ष्णा // ( 4 ) चाषमीक्षितुमनाः स शुभार्थी, वायसं कटु रटन्तमपश्यत् / रोहणेऽपि मणिमाशु जिघृक्षुः, काचखण्डमिव भाग्यविहीनः // ( 5 ) पापकेतुततपुच्छमिवोन, जङ्गमं भयतरोरिव पादम्। अर्गलामिव समीहितसिद्धदन्दशूकमयमैक्षत मार्गे // ( 6 ) सन्ततं दहनमण्डलमध्यात्, तस्य रोगवियुजो रविनाडी। - तापकारणमिमं व्यवसायं, सर्वतोऽपि हि विवक्षुरुवाह //