________________ अथ चतुर्थः सर्गः ऐन्द्रस्तोमनताया प्रत्यूहव्यूनहाशिने / नमः श्रीपार्श्वनाथाय, श्रीशलेश्वरमौलये // प्रस्थितं प्रभुगिरागतपक्ष, वेगतः शकुनमेव सुवेगम् / भाविभावगतिवीक्षणदक्षा, तं न्यवारयदथाऽशकुनाली // तस्य दैवमतिसौहृदपात्रे, वैरिदौत्यवहनादिव सद्यः / शंसितुं विपदि यत्परिणाम, स्पन्दते स्म नयनं पथि वामम् //