________________ तृतीय सर्गः 10 ( 120 ) गुणकमलहिमानी स्नेहपानीयपङ्को, व्यसनविपुलखानी राजसीराजधानी / अहह विषयतृष्णा सर्वतोऽप्युग्रवीर्या, यदजनि जिननाथज्येष्ठपुत्रोऽनुजारिः॥ ( 121 ) विधुविशदयशःश्रीः स्वामिभक्तं सुवृत्तं, नयनिपुणमदम्भं निर्भयं सत्यवाचम् / द्रुतमनुबहलीशं प्रेषयामा सराजा, विजितपवनवेगः सोऽथ दूतं सुवेगम् / / इति न्यायविशारद-न्यायाचार्य-महोपाध्याय श्रीमद्यशोविजयगणिविरचिते “प्रार्षभीयचरिते महाकाव्ये" तृतीयः सर्गः।