________________ 100 आर्षभीय-चरित-महाकाव्यम् ( 116 ) सिद्धा जिगीषा निखिला तवेश, क्लेशः कियान् भ्रातृजये विधेये / स्वं पौरुषं स्फोरय मुञ्च दैन्यं, न शत्रुजिष्णु क्व तवास्ति सैन्यम् // .( 117 ) दूतं ततो भूपुरुहूत हूति कलाकुहूतन्द्रितभूपचन्द्रम् / निस्तन्द्रधीः प्रेषय पुण्यपूतं, कार्य तदाकूतमवेत्य कुर्याः // ( 118 ) इति सचिववचोभिर्बाढमुच्चाटितायां, __कलितविविधतन्त्रैः स्निग्धतायां सपत्न्याम् / अनुजमनु धनुारोपकोपं वितेने, भरतहृदि पदं द्रागाददाना जिगीषा // ( 116 ) सकलभरतभत्तानसं सूर्यरत्नं, . ___सचिवतरणिवाक्याभीशुयोगेन वह्निम् / यमुदगिरदमर्ष तेन दग्धं तदानीं, . चिरपरिचयजातं सोदरस्नेहखण्डम् //