________________ आर्षभीय-चरित-महाकाव्यम् ( 108 ) हित्वाऽनुतापद्रवतां तदन्तः, . .. कठोरतां चक्रवदाद्रियस्व / .. धृतिर्न बाढं हृदि संशयानं, न राज्यलीला तु शयानमेति // ( 106 ) सुदुःसहं किंचन नास्ति ,राज्ञा माज्ञाविलोपादपरं हि दुःखम् / तद्दातरि भ्रातरि सौहृदं चे ज्जातिस्तदा कारिपदाभिधेया / . ( 110 ) नम्र मृदुत्वं च शठे हठित्वं, भत्ये प्रसादश्च नरेन्द्रचिह्नम् / न केवलं चामरधारणं तु, मौलौ धृतं तत्पशुनाऽपि पश्चात् // ( 111 ) नम्रस्य देयोन्नतिरित्त्युदात्त, नत्वोन्नमच्चामरमाह राज्ञे। . अत्युन्नतो यः स तु नामनीय, इत्यस्य वक्ति व्यतिरेक भङ्गी //