________________ आर्षभीय-चरित-महाकाव्यम् ( 100 ) इत्युद्धतद्वैतविचारदोला लोलायमाने भरतस्य चित्ते / उदाहरन्न्यायविवेकशद्धमद्वैतपक्षं सचिवो निजेष्टम् // .( 101 ) राज्ञामसुभ्योऽप्यधिकं हि तेजो युक्तस्ततस्तच्छिदिमन्युरेव / निजः परो वा स विनीयमानो, नीत्या निषेधान्न यशो निहन्ति // .. ( 102 ) अल्पो हि सह्योऽविनयोऽनुजस्य, गृहोचितोऽस्मादितरस्त्वसह्यः / उद्गृह्णति ह्यध्ययने च वादे, __ भिन्ना गुरोर्व्याहृतयो न शिष्ये // ( 103 ) ज्येष्ठस्य नाज्ञां दलयेत्कनीया निति क्षितौ नीतिरनादिरूढा / लुम्पन्नसौ तां यदि नो कुकीर्ते बिभेति तत्का भवतस्ततो भीः //