________________ तृतीयः सर्गः ( 66 ) विधाय वक्षो बलिभिः सहारं, ___ सपुष्पमालं पलितः शिरश्च / पुंसामतृप्ता धृतिमेष्यतीयं, प्रदाय कि मण्डनमन्यदाशा // (67 ) आलम्ब्य लोका व्यसनार्णवे यां, पतन्ति हित्वा च तमुत्तरन्ति / आश्चर्यमेषा विपरोतरीतिराशातरी कि न चरीकरीति // (68) न यत्र चन्द्रार्कमरीचिवीचिः, प्रयाति नो वा पवनः प्रचण्डः / हित्वा विचारं पुरुषस्य तत्राप्याशापिशाची कुरुते प्रचारम् // (66) अस्या वशीभूय कथं न भूय स्त्रपेऽकृपो भ्रातृवधाय धावन् / कथं च कुर्यामभिषेकनीरा - निधौतचक्राननपङ्कमाष्टिम् // 1. 'तुष्टा' इति ग्रन्थकृत्पाठान्तरम् /