________________ 14 आर्षभीय-चरित-महाकाव्यम् ( 62 ) आशीविषीविजिता किलाशा, - ममानुजास्ते जगतोऽपि वन्द्याः / पतन्नमदग्व्यसनेष्विदानीमहं तु हन्तास्मि हतस्तयैव // / 63 ). दुःखैकखानि दुरितद्रुवल्ली मशेषदोषव्रजजन्मभूमिम् / आशां निराशीकुरुते जनो यः, सुखी स एवेह न कश्चिदन्यः // (64) जीर्णे न जीर्णा न कृशे कृशा या, नैगिकी सा न जने धनाशा / उत्पातजातिः परमुल्बणैषा, तस्यां च सत्यां सुखिता कुतस्त्या // ( 65 ) ‘यां स्नेहपीयूषघनेऽप्यकस्मा दङ्गारधारां प्रकटीकरोति / . आशाभिधाना किल सा दवाग्नि ज्वाला न लोकावगतस्वभावा //