________________ आर्षभीय-चरित-महाकाव्यम् ( 76 ) न वक्रभावस्तदिहास्ति कश्चि. च्चक्रस्य भूशक्रसमागमाय / तवानुजस्यैव तु सत्त्वयास्मिन्नारोप्यते विभ्रमशक्तिभाजा॥ ( 77 ) तदस्य पूर्व प्रहितेन वक्त्र च्छायव दूतेन विलोकनीया। ॐकारमग्रेसरयत्यतश्चे दाज्ञा श्रुतौ तन्महतोष्टसिद्धिः // ... ( 78 )' प्रमादसुप्तो यदि नागतोऽसौ, तद् द्रागमुं जागरयिष्यतीयम् / त्वद्वामभानोरुदयाभिधात्री, दूतीयवाणी कृकुवाकुकाकुः॥ ( 76 ) अन्येष्विव त्वय्यपि दोर्मदं स, प्रदर्शयिष्यन्नथ नागतश्चेत् / त्वदूतवाचः श्रवणात्तदानीं, मानी प्रतिज्ञास्यति सम्परायम् / /