________________ तृतीयः सर्गः ( 72 ) त्वया त्वमुष्मिन्नजिते न शक्य स्त्रातुं निजश्चक्रिपदप्रवादः / नभस्यलुप्त्वा ग्रहमात्रदीप्ति, ... ग्रहाधिपख्यातिमुपैति नार्कः // कियज्जितं जाग्रति तत्र शत्रौ, . क्षेत्रं त्वयेदं भरताभिधानम् / ग्रन्थावभिन्ने सति मोहनीयकर्मेव मोक्षार्थमुपस्थितेन // (74 ) समग्रशास्त्रेऽपि कृतप्रवेशा, | मोमुह्यते ब्रह्मणि दृग्यथोच्चैः / तथा तवास्मिन् जगदेकसारे, प्रणीतषट्खण्डजयाऽपि सेना // ( 75 ) चक्र सहस्रेण सुरैरवेति, वृत्तान्तमेनं द्विसहस्रनेत्रम् / प्रतिश्रुतं सर्वजये प्रवेशं, . कथं करोत्यायुधवेश्मनीदम् // . प्रा०-१२