________________ 88 पार्षभीय-चरित-महाकाव्यम् (68) अश्वव्रजोत्खातधरारजोभि नग्नो युधि प्रौढनिशान्धकारे / खड्गोऽस्य जैत्रं जपतीव मन्त्रं, कृत्वाऽरितेजःकणवीरहोमम् // * ( 66 ) स्वोयच्छविच्छन्नविपक्षलक्ष प्रतापकीर्त्यर्कविधुप्रकाशम् / धाराधरं प्रेक्ष्य तदीयखड्गं, पलायिताः केऽत्र न राजहंसाः // - ( 70 ) आनन्दनश्चन्दनवत्प्रजानां, कृतान्तवगीतिकरो रिपूणाम् / व्यामोहनो मान्त्रिकवच्छठानां, स राजते राजकुलावतंसः // (71) अस्मिन् दृढीभूतजनानुरागे, विवृद्धकोशे प्रसृतप्रतापे। . बलोजिते कः कुरुते जयाशा, प्राच्यं यशः संशयितें चिकीर्षुः / /